|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.121. अध्यायः 121
Mahabharata - Drona Parva - Chapter Topics
सात्यकियुद्धवर्णनम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
धृतराष्ट्र उवाच। 7-121-0x(4567)(49833)
सम्प्रद्य महत्सैन्यं यान्तं शैनेयमर्जुनम्।
निर्हीका मम ते पुत्राः किमकुर्वत सञ्जय॥ 7-121-1(49834)
कथं वैषां तदा युद्धे धृतिरासीन्मुमूर्षताम्।
शैनेयचरितं दृष्ट्वा यादृशं सव्यसाचिनः॥ 7-121-2(49835)
किं नु वक्ष्यन्ति ते क्षात्रं सैन्यमध्ये पराजिताः।
कथं नु सात्यकिर्युद्धे व्यतिक्रान्तो महायशाः॥ 7-121-3(49836)
कथं च मम पुत्राणां जीवतां तत्र सञ्जय।
शैनेयोऽभिययौ युद्धे तन्ममाचक्ष्व सञ्जय॥ 7-121-4(49837)
अत्यद्भुतमिदं तात त्वत्सकाशाच्छृणोम्यहम्।
एकस्य बहुभिः सार्धं शत्रुभिस्तैर्महारथैः॥ 7-121-5(49838)
विपरीतमहं मन्ये मन्दभाग्यं सुतं प्रति।
यत्रावध्यन्त समरे सात्वतेन महारथाः॥ 7-121-6(49839)
एकस्य हि न पर्याप्तं यत्सैन्यं तस्य सञ्जय।
क्रुद्धस्य युयुधानस्य सर्वे तिष्ठन्तु पाण़्डवाः॥ 7-121-7(49840)
निर्जित्य समरे द्रोणं कृतिनं चित्रयोधिनम्।
यथा पशुगणान्सिंहस्तद्वद्धन्ता सुतान्मम॥ 7-121-8(49841)
कृतवर्मादिभिः शूरैर्यत्तैर्बहुभिराहवे।
युयुधानो न शकितो हन्तुं यत्पुरुषर्षभः॥ 7-121-9(49842)
नैतदीदृशकं युद्धं कृतवांस्तत्र फल्गुनः।
यादृशं कृतवान्युद्धं शिनेर्नप्ता महायशाः॥ 7-121-10(49843)
स़ञ्जय उवाच। 7-121-11x(4568)
तव दुर्मन्त्रिते राजन्दुर्योधनकृतेन च।
शृणुष्वावहितो भूत्वा यत्ते वक्ष्यामि भारत॥ 7-121-11(49844)
ते पुनः सन्न्यवर्तन्त कृत्वा संशपथान्मिथः।
परां युद्धे मतिं क्रूरां तव पुत्रस्य शासनात्॥ 7-121-12(49845)
त्रीणि सादिसहस्राणि दुर्योधनपुरोगमाः।
शककाम्भोजबालह्लीका यवनाः पारदास्तथा॥ 7-121-13(49846)
कुलिन्दास्तङ्कणाम्बष्ठाः पैशाचाश्च सबर्बराः।
पार्वतीयाश्च राजेन्द्र क्रुद्धाः पाषाणपाणयः।
अभ्यद्रवन्त शैनेयं शलभाः पावकं यथा॥ 7-121-14(49847)
युक्ताश्च पार्वतीयानां रथाः पाषाणयोधिनाम्।
शूराः पञ्चशतं राजञ्शैनेयं समुपाद्रवन्॥ 7-121-15(49848)
ततो रथसहस्रेण महारथशतेन च।
द्विरदानां सहस्रेण द्विसाहस्रैश्च वाजिभिः॥ 7-121-16(49849)
शरवर्षाणि मुञ्चन्तो विविधानि महारथाः।
अभ्यद्रवन्त शैनेयमसङ्ख्येयाश्च पत्तयः॥ 7-121-17(49850)
तांश्च सञ्चोदयन्सर्वान्घ्नतैनमिति भारत।
दुःशासनो महाराज सात्यकिं पर्यवारयत्॥ 7-121-18(49851)
तत्राद्भुतमपश्याम शैनेयचरितं महत्।
यदेको बहुभिः सार्धमसम्भ्रान्तमयुध्यत॥ 7-121-19(49852)
अवधीच्च रथानीकं द्विरदानां च तद्बलम्।
सादिनश्चैव तान्सर्वान्दस्यूनपि च सर्वशः॥ 7-121-20(49853)
तत्र चक्रैर्विमथितैर्भग्नैश्च परमायुधैः।
अक्षैश्च बहुधा भग्नैरीषादण्डकबन्धुरैः॥ 7-121-21(49854)
कुञ्जरैर्मथितैश्चापि ध्वजैश्च विनिपातितैः।
वर्मभिश्च तथाऽनीकैर्व्यवकीर्णा वसुन्धरा॥ 7-121-22(49855)
स्रग्भिराभरणैर्वस्त्रैरनुकर्षैश्च मारिष।
सञ्छन्ना वसुधा तत्र द्यौर्ग्रहैरिव भारत॥ 7-121-23(49856)
गिरिरूपधरैश्चापि पतितैश्च महागजैः।
`म्लेच्छस्थितैर्महाराज भिन्नाञ्जनचयोपमैः॥ 7-121-24(49857)
मृगैर्मन्द्रैश्च भद्रैश्च मृगमन्द्रैस्तथाऽपरैः।
भद्रैर्मन्द्रमृगैश्चैव मृगभद्रैस्तथैव च॥ 7-121-25(49858)
भद्रमन्द्रैश्चैव तथा तथा भद्रमृगैरपि।
तत्रतत्र धरा कीर्णा शयानैः पर्वतोपमैः'॥ 7-121-26(49859)
अञ्जनस्य कुले जाता वामनस्य च भारत।
सुप्रतीककुले जाता महापद्मकुले तथा॥ 7-121-27(49860)
ऐरावतकुले चैव तथाऽन्येषु कुलेषु च।
जाता दन्तिवरा राजञ्शेरते बहवो हताः॥ 7-121-28(49861)
वनायुजान्पार्वतीयान्काम्भोजान्बाह्लिकानपि।
तथा हयवरान्राजन्निजघ्ने तत्र सात्यकिः॥ 7-121-29(49862)
नानादेशसमुत्थांश्च नानाजातींश्च दन्तिनः।
निजघ्ने तत्र शैनेयः शतशोऽथ सहस्रशः॥ 7-121-30(49863)
तेषु प्रकाल्यमानेषु दस्यून्दुःशासनोऽब्रवीत्।
निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः॥ 7-121-31(49864)
तांश्चातिभग्नासन्सम्प्रेक्ष्य पुत्रो दुःशासनस्तव।
पाषाणयोधिनः शूरान्पार्वतीयानचोदयत्॥ 7-121-32(49865)
अश्मयुद्धेषु कुशला नैतञ्जानापि सात्यकिः।
अश्मयुद्धमजानन्तं हतैनं युद्धकामुकम्॥ 7-121-33(49866)
तथैव कुरवः सर्वे नाश्मयुद्धविशारदाः।
अभिद्रवत माभैष्ट न वः प्राप्स्यति सात्यकिः॥ 7-121-34(49867)
ते पार्वतीया राजानः सर्वे पाषाणयोधिनः।
अभ्यद्रवन्त शैनेयं राजानमिव मन्त्रिणः॥ 7-121-35(49868)
ततो गजशिरःप्रख्यैरुपलैः शैलवासिनः।
उद्यतैर्युयुधानस्य पुरतस्तस्थुराहवे॥ 7-121-36(49869)
क्षेरणीयैस्तथाप्यन्ये सात्वतस्य वधैषिणः।
चोदितास्तव पुत्रेण सर्वतो रुरुधुर्दिशः॥ 7-121-37(49870)
तेषामापततामेव शिलायुद्धं चिकीर्षताम्।
सात्यकिः प्रतिसन्धाय निशितान्प्राहिणोच्छरान्॥ 7-121-38(49871)
तामश्मवृष्टिं तुमुलां पार्वतीयैः समीरिताम्।
चिच्छेदोरगसंकाशैर्नाराचैः शिनिपुङ्गवः॥ 7-121-39(49872)
तैरश्मचूर्णैर्दीप्यद्भिः खद्योतानामिव व्रजैः।
प्रायः सैन्यान्यहन्यन्त हाहाभूतानि मारिष॥ 7-121-40(49873)
ततः पञ्चशतं शूराः समुद्यतमहाशिलाः।
निकृत्तबाहवो राजन्निपेतुर्धरणीतले॥ 7-121-41(49874)
सात्वतस्य च भल्लेन निष्पिष्टैस्तैस्तथाऽद्रिभिः।
न्यपतन्निहता म्लेच्छास्तत्रतत्र गतासवः॥ 7-121-42(49875)
ते हन्यमानाः समरे सात्वतेन महात्मना।
अश्मवृष्टिं महाघोरां पातयन्ति स्म सात्वते॥ 7-121-43(49876)
पाषाणयोधिनः शूरान्यतमानानवस्थितान्।
न्यवधीद्बहुसाहस्रांस्तदद्भुतमिवाभवत्॥ 7-121-44(49877)
ततः पुनर्बस्तमुखैरश्मवृष्टीः समन्ततः।
अधोबस्तैः स्थूलबस्तैर्दरदैः खसतङ्कणैः॥ 7-121-45(49878)
लम्बकैश्च कुणिन्दैश्च क्षिप्ताः क्षिप्ताश्च सात्यकिः।
नाराचैः प्रतिचिच्छेद प्रतिपत्तिविशारदः॥ 7-121-46(49879)
अद्रीणां भिद्यमानानामन्तरिक्षे शितैः शरैः।
शब्देन प्राद्रवन्सङ्ख्ये रथाश्वगजपत्तयः॥ 7-121-47(49880)
अश्मचूर्णैरवाकीर्णा मनुष्यगजवाजिनः।
नाशक्नुवन्नवस्थातुं भ्रमरैरिव दंशिताः॥ 7-121-48(49881)
हतशिष्टाः सरुधिरा भिन्नमस्तकपिण़्डिकाः।
`विभिन्नशिरसो राजन्दन्तैश्छिन्नैश्च दन्तिनः।
निर्धूतैश्च करैर्नागा व्यङ्गाश्च शतशः कृताः॥ 7-121-49(49882)
हत्वा पञ्चशतं योधांस्तत्क्षणेनैव मारिष।
व्यचरत्पृतनामध्ये शैनेयः कृतहस्तवत्॥ 7-121-50(49883)
कुञ्जराः सन्न्यवर्तन्त युयुधानेन मोहिताः॥ 7-121-51(49884)
अश्मनां भिद्यमानानां सायकैः श्रूयते ध्वनिः।
पद्मपत्रेषुधाराणां पतन्तीनामिव ध्वनिः'॥ 7-121-52(49885)
ततः शब्दः समभवत्तव सैन्यस्य मारिष।
माधवेनार्द्यमानस्य सागरस्येव पर्वणि॥ 7-121-53(49886)
तं शब्दं तुमुलं श्रुत्वा द्रोणो यन्तारमब्रवीत्।
एष सूत रणे क्रुद्धः सात्वतानां महारथः॥ 7-121-54(49887)
दारयन्बहुधा सैन्यं रणे चरति कालवत्।
यत्रैष शब्दस्तुमुलस्तत्र सूत रथं नय॥ 7-121-55(49888)
पाषाणयोधिभिर्नूनं युयुधानः समागतः।
तथाहि रथिनः सर्वे हियन्ते विद्रुतैर्हयैः॥ 7-121-56(49889)
विशस्त्रकवचा रुग्णास्तत्रतत्र पतन्ति च।
न शक्नुवन्ति यन्तारः संयन्तुं तुमुले हयान्॥ 7-121-57(49890)
सञ्जय उवाच। 7-121-58x(4569)
इत्येतद्वचनं श्रुत्वा भारद्वाजस्य सारथिः।
प्रत्युवाच ततो द्रोणं सर्वशस्त्रभृतां वरम्॥ 7-121-58(49891)
सैन्यं द्रवति चायुष्मन्कौरवेयं समन्ततः।
पश्य योधान्रणे भग्नान्धावतो वै ततस्ततः॥ 7-121-59(49892)
इमे च संहताः शूराः पाञ्चालाः पाण्डवैः सह।
त्वामेव हि जिघांसन्त आद्रवन्ति समन्ततः॥ 7-121-60(49893)
अत्र कार्यं समाधत्स्व प्राप्तकालमरिन्दम।
स्वाने वा गमने वापि दूरं यातश्च सात्यकिः॥ 7-121-61(49894)
सञ्चय उवाच। 7-121-62x(4570)
तथैवं वदतस्तस्य भारद्वाजस्य सारथेः।
प्रत्यदृश्यत शैनेयो निघ्नन्बहुविधान्रथान्॥ 7-121-62(49895)
ते वध्यमानाः समरे युयुधानेन तावकाः।
युयुधानरथं त्यक्त्वा द्रोणानीकाय दुद्रुवुः॥ 7-121-63(49896)
यैस्तु दुःशासनः सार्धं रथैः पूर्वं न्यवर्तत।
ते भीतास्त्वभ्यधावन्त सर्वे द्रोणरथं प्रति॥ ॥ 7-121-64(49897)
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे एकविंशत्यधिकशततमोऽध्यायः॥ 121 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-121-11 दुर्योधनस्य कृतेन कर्मणा॥ 5-121-12 मतिं कृत्वेत्यन्वयः॥ 5-121-25 मृगमन्द्रादयो गजविशेषाः॥ 5-121-27 वामनस्य यमोपवाह्यस्य। सुप्रतीकस्य ईशोपवाह्यस्य। महापद्मस्य कुमुदस्य कुले॥ 5-121-28 अन्येषु कुलेषु पुण्डरीकपुष्पदन्तसार्वभौमीयेषु॥ 5-121-37 क्षेपणीयैः शस्त्रैः॥ 5-121-45 ततः पुनर्व्यात्तमुखास्तेऽश्मवृष्टीः समन्ततः। अयोहस्ताः शूलहस्ता दरदास्तङ्कणाः खसाः। लम्पकाश्च कुलिन्दाश्च चिक्षिपुस्तांश्च सात्यकिः। इति झ.ञ.घ.पाठः॥ 5-121-47 अद्रीणां प्रस्तराणाम्॥ 5-121-121 एकविंशत्यधिकशततमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|